▼

अङ्कोल - Alangium salviifolium -അങ്കോലം


अङ्कोल - Alangium salviifolium -
അങ്കോലം

A Vishaghna, Kushtaghna, Krimighna tree 

Alangium salviifolium
അങ്കോലം
Tamil: Eralincil 
 Telugu:Nalla ankolamu
Kannada: Ankola
Fruits sweet, Neutrative..

अङ्कोलः कोटरो रेची गूढपत्रो निकोचकः |
गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ||
पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः |
कोलको लम्बकर्णश्च गन्धपुष्पश्च रोचनः |
विज्ञानतैलगर्भश्च स्मृतिसङ्ख्याभिधः स्मृतः ||
अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् |
कफानिलहरः सूतः शुद्धिकृद्रेचनीयकः ||
      (राजनिघण्टु , प्रभद्रादिवर्ग)

अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः |
रेचनः कृमिशूलामशोफग्रहविषापहः ||
विसर्पकफपित्तास्रमूषकाहिविषापहः |
तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु |
बल्यं विरेचनं वातपित्तदाहक्षयास्रजित् ||
(भावप्रकाश , गुडूच्यादिवर्ग )

अङ्कोलस्तिक्तकःस्निग्धःतीक्ष्णोष्णस्तुवरःकटुः |
वामनो रेचनो हन्ति शूलशोफग्रहकृमीन् ||
विसर्पकफपित्तास्रकुक्कुराखुविषं विषम् |
तत्फलं श्लेष्मलं शीतं मधुरं रसपाकयोः ||
सुस्निग्धं बृंहणं वृष्यं गुरु बल्यं विरेककृत् |
निहन्त्यनिलपित्तास्रदाहवह्निक्षतक्षयान् ||
           (कैयदेवनिघण्टु)

By Dr.Ajayan Sir

No comments:

Post a Comment

If you have any doubts on about Ayurveda treatments about different diseases, different Panchakarma Procedure, Home Remedy, Alternative Medicine, Traditional medicine,Folk medicine,Medicinal Plants, Special diets, Ayurveda medicine ,Complementary medicine LET ME KNOW