Random Post

पलाण्डुः - Allium Cepa

पलाण्डुः - Allium Cepa



"पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः 
पलाण्डुस्तु बुधैर्ज्ञेयो रसोनसदृशो गुणै:
स्वादु: पाके रसेऽनुष्णः कफकृत् नातिपित्तला
हरते केवलं वातं बलवीर्यकरो गुरुः "
( भा प्र )

पलाण्डुः
सुकन्दकः लोहितकन्दः, तीक्ष्णकन्दः मुख- दूषणः , शूद्रप्रियः, कृमिघ्नः ,दीपनः ,मुखगन्धकः ,बहुपत्त्रः ।

 गुणाः :-
 कटुत्वम् ,बल्यत्वम् ,
 कफपित्तवान्तिदोषनाशित्वम् ,
 गुरुत्वम् वृष्यत्वम् ,रोचनत्वम् , स्निग्धत्वम्। 
   (रा नि )
    
Allium cepa
Family: Alliaceae

Onion

Malayalam – ഉള്ളി Ulli ,
ചുവന്നുള്ളി Chuvannaulli

Hindi – Piyaz, Pyaz
Kannada – Nirulli, Irulli
Tamil – Vengayam
Telugu – Nirulli

Properties :-
Rasa: Madhura , Katu
Guna: Guru, Snigdha:
Virya: Ushna
Vipaka: Madhura
Onions decrease vata and increase pitta.
Karma :-
Krimighna, arsoghna, vatahara, deepana, pachana,

Benefits:-
aphrodisiac, improves vigour
useful in dental caries
Useful in urinary tract disorders, 
 diabetes
useful in arthritic pain, sciatica, 
hysteria and hydrophobia.
 It improves digestion and helps in constipation, piles and jaundice. 
 Onions are also used in rectal prolapse.
 It is useful in cardiac debility, bleeding disorders, dry cough, dysuria, azoospermia, dysmenorrhoea, cholera, plague and skin diseases

Antibiotic, antibacterial, antisclerotic, anticoagulant, anti-inflammatory, antiasthmatic, expectorant, carminative, antispasmodic, diuretic, hypotensive, antidiabetic.

पलाण्डुः
सौन्दर्यदायकः आरोग्यप्रदश्च वर्तते । 
रोगेभ्यः शरीरं रक्षति । 
अस्य गन्धः रुचिः च तीक्ष्णः भवति । 
भक्षणोत्तरं अस्य गन्धः मुखे भवति ।
 अयं कृमिनाशकः अपि ।
 अस्य कर्तनसमये विमुच्यमानेन अनिलेन नेत्रज्वलनं भवति , अश्रूणि च आगच्छन्ति । 
 अयं उत्तमः वातशामकः, अपि पितस्य कफस्य च वर्धकः वर्तते । 
 अयं पाकस्य रुचिवर्धकः ।
  
गुडेन सह अपयुक्तपलाडुसेवनं बालानां शारीरकवर्धनाय हितकरम् । 
पलाण्डुरससेवनेन दृष्टिशक्तिः वर्धते । 
दृष्टिमान्द्येसति पलाण्डुरसं कञ्जलवत् नेत्रे लेपयन्ति ।
 तदा दृष्टिमान्द्यं निवारितं भवति । 
 अग्निमान्द्यं, अजीर्णता, अर्शोरोगः, कामले गुदभ्रंशे च पलाण्डुः उत्तमम् औषधम् । 
 हृदय दौर्भल्यस्य नासिकारक्तस्रावस्य च पलाण्डुं क्षीरेण सह क्वाधयित्वा क्षीरपाकं सज्जीकृत्य सेवनीयम् । 
 गुडेन, मधुना वा सह पलाण्डोः सेवनं कासनिवारणे प्रसिद्धः उपायः । 
वातकारणेन यदा मूत्रम् अवरुद्धं भवति तदा पलाण्डुसेवनेन मूत्रविसर्जनं सरलतया भवति।
 कर्णवेदनायां मन्दोष्णस्यपलाण्डुरसस्य कर्णे स्थापनेन वेदना अपगच्छति ।
आक्षेपकः (Convulsions) सन्धिवातः,अपस्मारः
 इत्यादिरोगेषु सत्सु पलाण्डसेवनं रोगिणः शरीरकर्म सामर्थं वर्धयित्वा रोगमुक्तेन भवितुं साहाय्यं करोति । 
मलेरियाज्वरे सति प्रातः रात्रौः मरीचत्रयेण सह पलाण्डुः सम्यकं चर्वित्वा खादनीयः ।

अस्य रसः कटुः । 
अस्मिन् पलाण्डुकन्दे विद्यमानं तैलम् उत्तेजकम् । पलाण्डुकन्दः मूत्रलः, कफनाशाकः च ।

अयं पलाण्डुः वमनं निवारयति । 
बाह्योत्तेजकम् अपि ।
पलाण्डुं भर्जयित्वा रसं निष्पीड्य मधुना सह सेव्यते चेत् तत् वाजीकरं भवति ।
अस्य पलाण्डोः लवणेन सह उपयोगः ज्वरे, नेत्रदोषे, कासे, श्वासरोगे च क्रियते ।
व्रणानां, पिटकानां वा उपरि पलाण्डुं भर्जयित्वा लेपनेन ते अपगच्छन्ति ।
अतिसारे, उष्णसम्बद्धेषु रोगेषु च अस्य रसः उपयुज्यते ।

Onion is an ingredient in Murivenna.

Post a Comment

0 Comments