Random Post

चिञ्चा - Tamarindus indica

चिञ्चा - Tamarindus indica

"अम्लिकाम्ला गुरुर्वातहरी पित्तकफास्त्रकृत्
पक्वा तु दीपनी रुक्षा सरोष्णा कफवातनुत् "
( भा प्र )

 "चिञ्चा तु चुक्रिका चुक्रा साम्लिका शाकचुक्रिका 
अम्ली सुतिन्तिडी चाम्ला चुक्रिका च नवाभिधा 
चिञ्चात्यम्ला भवेदामा पक्वा तु मधुराम्लिका 
वातघ्नी पित्तदाहास्रकफदोषप्रकोपणी 
अम्लिकायाः फलं त्वाममत्यम्लं लघु पित्तकृत् 
पक्वं तु मधुराम्लं स्याद्भेदि विष्टम्भवातजित् 
पक्वचिञ्चाफलरसो मधुराम्लो रुचिप्रदः 
शोफपाककरो लेपाद्व्रणदोषविनाशनः 
चिञ्चापत्रं च शोफघ्नं रक्तदोषव्यथापहम् 
तस्याः शुष्कत्वचाक्षारं शूलमन्दाग्निनाशनम् "
( रा नि )

 "चिञ्चाम्लोष्णा गुरुर्वातहरी पित्तकफास्रदा 
तिन्त्रिणी कुसुमं स्वादु कषायाम्लं रुचिप्रदम् 
कफमारुतमेहघ्नं विशदं दीपनं लघु 
तिन्तिडीकफलं बालमसृक्पित्तवलासकृत् 
ग्राहृष्णं दीपनं रुच्यं मध्यमं कफवातनुत् 
तद्वत् पक्वा सरा रूक्षा रुच्याग्निवस्तिशुद्धिकृत् 
हृद्या कफघ्नी शुष्कैवं तृट्क्लमश्रमजिल्लघुः 
वातश्लेष्मकरं ज्ञेयं नवं तिन्तिडिकाफलम् 
संवत्सरस्थितं तत्तु पित्तघ्नमनिलापहम् "
 ( कैयदेवनिघण्टु )

 "अम्लिकायाः फलं चाम्लमत्यन्तं पित्तकृल्लघु 
रक्तकृत् वातशमनं बस्तिशुद्धिकरं परम् 
पक्वं तु मधुराम्लं च भेदि विष्टम्भि वातजित्
त्वक्भस्म स्यात्कषायोष्णं कफघ्नं त्वनिलापहम् "
( धन्वन्तरिनिघण्टु )

चिञ्चा ,चुक्रिका ,चुक्रा , अम्लिका ,    
अम्ली , तिन्तिडी , अम्ल , तिन्त्रिणी ।

Tamarindus indica 
Family- Caesalpiniaceae

Tamarind

Malayalam: പുളി (Puli )
വാളൻപുളി (valan Puli )

Hindi:इमली imli, तिन्तिड़ी tintiri
Kannada: ಹುಣಸೇ hunase
Tamil: ஆம்பிலம் ambilam
Telugu: ఆమ్లము amlamu
Konkani: चिंच्याम chinchyaam

Part used:-
 flower, seed, fruit, kshara .bark.

रस पञ्चकं :-
रस - मधुर ,अम्ल
गुण– गुरु , रूक्ष
वीर्यः – उष्ण
विपाक:– अम्ल 
दोषहरत्व - कफ वात हरं 

अम्लिकाया आमफलस्य गुणा: :-
लघु
अत्यम्लम्
वाताहर:
पित्तकृत्
कफकृत
रक्तप्रकोपनी
दाहकृत्

पक्वफलस्य गुणा::-
मधुरम्
अम्लम्
भेदि
दीपनी
रूक्षा
सर:
उष्ण
कफवातहरं
 विष्टंभमजित्
रुच्यम्
वस्तिशुद्धिकृत् 
हृद्यम्

चिञ्चापत्रस्य गुणा: :-
शोफघ्नं 
रक्तदोषव्यथापहम्

तिन्त्रिणी कुसुमस्य गुणा: :-
स्वादु कषायाम्लं 
रुचिप्रदम् 
कफमारुतमेहघ्नं 
विशदं 
दीपनं
 लघु

त्वचाक्षारस्य गुणा: :-
शूलमन्दाग्निनाशनम्

तिन्त्रिणी कफं शमयति ।
अग्निमान्द्ये, अरुचौ चापि 
तिन्त्रिणी उपयुज्यते ।
इयम् उदरबाधां, गुल्मं, 
मलबद्धतां चापि निवारयति ।
बालानां ज्वरावसरे, आतपस्य बाधायां च
 अस्याः पानकस्य उपयोगः क्रियते ।
शोथे अस्य तिन्त्रिणीफलस्य लेपः क्रियते ।
अतिसारे अस्य बीजस्य चूर्णं हितकरम् ।
ज्वरावसरे अस्य पर्णानां रसः उपयुज्यते ।
मूलव्याधौ अस्य पर्णानां स्वरसः हितकरः ।
कण्ठवेदनायाम् अस्य बीजस्य चूर्णं 
जले योजयित्वा उपयुज्यते ।

तिन्त्रिणी पित्तं, कफं, रक्तं च वर्धयति,
 प्रकोपयति च ।
तिन्त्रिणी वातं शमयति ।
तिन्त्रिणी रूक्षा, उष्णा च ।
 तिन्त्रिणी अग्निदीपिका, 
 कफवातहारिणी च ।
 तिन्त्रिणीं जीरिकया, गुडेन सह 
 समप्रमाणेन योजयित्वा जलमयं
 कृत्वा सेवनेन दाहः (पिपासा)
  निवारितः भवति । 
 मुखे रुचिः अपि वर्धते ।
तिन्त्रिणीं मार्काण्डिकपत्रेण 
(Senna) सह सेवनेन मलस्य 
अवरोधः निवारितः भवति ।
तिन्त्रिणीपर्णस्य पेषणं कृत्वा
 व्रणस्य शोथे लेपनेन व्रणः शोथः 
 च अपगच्छति ।
आम्लपित्तरोगेण बाधिताः 
तिन्त्रिण्याः उपयोगं न कुर्युः ।
पित्तरक्तदोषे सति अपि 
तिन्त्रिणी न उपयोक्तव्या ।
चर्मरोगिभिः अपि तिन्त्रिण्याः
 उपयोगः न करणीयः।

Formulations:-
Karimbirumbadi Kashayam 
(Vyoshadi Kashayam )
Chinchadi leham
Chinchadi Thailam
Kottamchukkadi Thailam
Panchamla Thailam etc.

Post a Comment

0 Comments