Random Post

चरकोक्त महाकषाय - MAHA KASHAYA BY CHARAKA

चरकोक्त महाकषाय और उनकी व्यावहारिक उपयोगीता - (चरकोक्त महाकषाय - MAHA KASHAYA BY CHARAKA )
1.जीवनीय महाकषाय- 
-जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति. 
*क्षयनिवारणार्थ,धातुसाम्यप्रस्थापनार्थ,प्राणधारणार्थ,धातुबलवर्धनार्थ


2.बृंहणीय -
-राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति !
* मांसधातू का बृंहण,मांसधातु पोषणात शरीरपुष्टी, सायन चिकित्सा,
द्रव्यानी कफवर्धकानी,गुरुत्वात,शैत्यात,
स्निग्धत्वात,स्थूलत्वात मांससमानानी तानी प्राय: बृहनियानी भवंती !


3.लेखनीय -मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य !
*मांसमेद कफभुयिस्ठानां धातुनां अपकर्षनम भवन्ती!
*स्थौल्य शोफ अर्बुद ग्रंथादी कफ मांस मेदोभुयिस्टेसू व्याधिषु च.

4. भेदनीय- -सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति !
* भेदनीय द्रव्य प्राय: आग्नेयं !
* मुत्राश्मरी- मुत्रल द्रव्य + भेदनीय महाकषाय
* श्वित्र - बाह्यत:
* बाह्य अर्श
* गुल्म, 


5. सन्धानिय- -मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति!
* संधाने कषाय रस श्रेष्ठ.
* रक्तविशोधन, क्लेदशोषन,व्रणरोपन 
* वन्धत्व- शुक्र-आर्तव संधानकारक इत्यर्थं (i.e.for गर्भधारणा)
*अतिसार
* भग्न



6.दीपनीय-
-पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति !
*गुल्म उदर अर्श अतिसार ग्रहणी विकारा अग्नीमांद्यात भवती,तेषू दीपनियानी उपयोगानी! 
* दीपनिय + तृप्तीघ्न महाकषाय

7. बल्य -ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति !
* देहबलं वर्धयती तत बल्यं !

8. कंठ्य - -सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति !
* दशप्राणायतन,सद्यप्राणहर मर्म
* स्वरक्षय, मांसशोनीत दुस्टी,
* गीत,भाष्य,अध्ययन से क्षीण मे उपयोगी.
* कंठ्य + लेखनीय+ दीपनीय.


9. हृद्य - -आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति !
*ओजोवर्धक 
*अम्लो रस प्राय: हृद्यानी! 
*अम्लरस रस-रक्तवर्धन-हृदयपोषण-हृदयबलवर्धन 


10. वर्ण्य - चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति !
* रक्त-ओज-वर्णप्रसादन 
* बालों का वर्ण ठिक करनेके लिये
* भ्राजकपित्त विकृती
* पांडूरोग,शोथ,कुस्ठे,व्रण



11. अर्शोघ्न - -कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति !
*त्वचा पे चलनेवाली सब मैडिसिन अर्श पे 


12.तृप्तीघ्न-
-नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति ! 
* कफ बाहुल्यात तृप्तीरोग संजायते, तृप्तिघ्नानी द्रव्यानी कफं हत्वा तत्र लाघवं पाटवं च जनयती!
* तृप्तिघ्नानी द्रव्यानी दीपनं पाचनं तथा सारकित्तविभजनं च कृत्वा !
* प्रमेह- दीपनीय +तृप्तीघ्न


13.कुष्टघ्न-
-खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दशेमानि कुष्ठघ्नानि भवन्ति !
* तिक्तद्रव्यानी रक्तप्रसादनं, कटुद्रव्यानी अग्नीदीपनं ,कषायद्रव्यानी शरीरगत क्लेद शोषयित्वा कुष्टहरानी भवंती!
- कोथनिर्मिती

14. कंडुघ्न-
-चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति ! 
* कफमेदस्वेदघ्नं च द्रव्यं कन्डुघ्नं भवती !
* कुष्टे, वातरक्ते,प्रमेहे,कृमिरोगे च कन्दुघ्नानां उपयोग !
* मन और त्वचा- जटामान्सी 


15. कृमिघ्न - 
-अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि कृमीघ्नानी भवंती !
*कुष्ट ,कृमि,विसर्प,अतिसारे,कृमिदंतके,हृद्रोगे,कृमिजशीरोरोगे,व्रणे च कृमिघ्नानां उपयोग!


16. विषघ्न - हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति!
*तिक्तो रस विषघ्न , मधुरो रस ओजोवर्धक भवती !
*दुषिविष, प्रमेह उपद्रव


17.स्तन्यजनन- 
-वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति !


18. स्तन्यशोधन-
-पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति !
* तत्र दशमुलानी वातदुस्टस्तन्य शोधयती.
* गुडुचि शतावरी सारिवा चन्दन निम्बादिनी पित्तदुष्टस्तन्यं शोधयती.
* शुन्ठी कट्वी देवदारु च कफदुष्टस्तन्यं शोधयती.
* गुडुचि धन्वयास पाठा तिक्ता त्रिदोषदुष्टस्तन्यं शोधयती.


19. शुक्रजनन-
-जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति !
* स्निग्धशीतंगुरुमधुरद्रव च द्रव्यं प्राय: शुक्रजनन भवती !



20.शुक्रशोधन-
-कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति !
*पुयशुक्र(pus cells in semen analysis)- परुषक चंदन द्राक्षा त्रिफला न्यग्रोध.


21.स्नेहोपग- 
-मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति ! शोथहर, सन्धानीय,स्नेहोपग.


22.स्वेदोपग- -शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति दशेमानि स्वेदोपगानि भवन्ति !
* स्वेदोपग द्रव्य प्रायं आग्नेयम!
- उद्बर्तन (प्रमेह,स्थौल्य)


23.वमनोपग- -मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति !
*वमनोपगानी द्रव्यानी प्राय: अग्नीवायुभुयीष्टानि!
* कफ- रसपाचक +वमनोपग
* पित्त- रक्तपाचक+ विरेचनोपग
*वात-अस्थीमज्जापाचक+आस्थापनो पग+अनुवासनोपग

23.विरेचनोपग- -द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति ! 


24.आस्थापनोपग-
-त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति ! 


25.अनुवासनोपग- -रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति !


26. शिरोविरेचनोपग- -ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति !


28.छर्दीनिग्रहण- 
-जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति!
* उदानं वातं शमयीत्वा,आमाशयस्य दाहं ,उत्क्लेशं च शमयित्वा कानिचित द्रव्यानी च्छर्दीनीग्रहानी द्रव्यानी!


29.तृष्णानिग्रहण-
-नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवंती!
*वातज तृष्णा-विदारी वाराही च!
*पित्तज तृष्णा- उडुंबर सारिवा वट मधुयष्टी,द्राक्षा,उशीर धन्वयास नारिकेलोदक !
*कफज तृष्णा- हरिद्रा पटोल निंब !
*आमज तृष्णा- उष्णोदक शुन्ठी मुस्ता देवदारु धान्यक्ं च!
*प्रमेह,भस्मक,
स्थौल्य

30. हिक्कानिग्रहण-
-शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति !
* हिक्काहरानी द्रव्यानी प्राणोदकान्नवाहीस्त्रोतोगतान दोषान हन्ती प्रानं उदानं चानुलोमयती!


31. पुरीषसन्ग्रहणिय-
-प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसङ्ग्रहणीयानि भवन्ति !
* पुरीषस्य स्तंभनाय यत हितकरं भवती,तत प्राय: अनिलगुणभुयिस्टं! 
* अतीसारे पक्वावस्थायां पुरीषसन्ग्रहणीयामुपयोग!

32. पुरीषविरजनीय -
-जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति !
* अग्नीमांद्यात अजीर्णात आमात स्त्रोतोरोधजन्य कामलायां पांडूरोगे च अन्नस्य घनमलस्य च पचनं सारकिट्ट पृथक्करणं सम्यक न भवती,,तत्र हरिद्रा चित्रक विडंग च पुरीषविरजनियानी भवंती !


33.मुत्रसन्ग्रहनीय -
-जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसङ्ग्रहणीयानि भवन्ति !
* मुत्र अतीप्रवृत्तो मुत्रसंग्रहनीयानां उपयोग:!
* मुत्रसंग्रहनियानी प्राय: तिक्तकटुकषायरस युक्तानी,रुक्षानी शुस्कानी च भवंती! यथा खदिर,असण,निंब !


34. मुत्रविरजनीय -
-पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति मुत्रविरजनियानी भवंती!


35. मुत्रविरेचनीय - -वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति इती दशेमानि मूत्रविरेचनीयानि भवन्ति !
*मुत्रकृच्छे,मुत्राघाते अश्मर्या च मुत्रविरेचनीयानाम उपयोग:!


36.कासहर -
-द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति !
*कर्कटशृंगी शटी गुडुचि कन्टकारी पिप्पली भारन्गी च वातजकासं हन्ती!
*सिता धात्री द्राक्षा वासा मधुकं धन्वयास च पित्तज कासं हन्ती !
* पिप्पली पिप्पलीमुल मरिचं अगरु बृहती बिभितक शुन्ठी देवदारु कासमर्द हिन्जल च कफजकासं हन्ती!
* लाक्षा वंशलोचना मधुयस्टि बला च क्षतजकासं क्षयजकासं च हन्ती!


37. श्वासहर - -शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति !
* उरस्तानगतान कफादीदोषां श्वासहरानी द्रव्यानी भवंती,तथा च प्राणम च अनुलोमयती!


38.शोथहर -
-पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहरानी भवंती !


39.ज्वरहर -
-सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति दशेमानि ज्वरहराणि भवन्ति (३९),
 

40.श्रमहर -
-द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति !
* श्रमहरानी प्राय वातपित्तहरानी मधुररसप्रधानानी शीतविर्यानी च!
* श्रमहरानी रसरक्तमांसपोषकानि च भवंती!


41.दाहप्रशमन-
-लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति !
* दाह पित्तात तथा वातपित्ताच तथा धातूक्षयाच्च दाह भवती!
* रसक्षये वातपित्तयो कोपात यदा दाह सन्जायते तदा प्रवाल मौक्तिक मुस्ता वालकं ईक्षुरस दुग्धं च रसधातूपोषनेन दाह्प्रशमनानी भवंती !
* रक्तधातुक्षये सारिवा दुर्वा रक्तचन्दन नीलकमल च दाहप्रशमनानी भवंती!
* मांसधातूक्षयजे दाहे द्राक्षा निंब मधुकं च दाहप्रशमन भवती!
* मेदोधातूक्षयजे दाहे गुडुचि भुनिम्ब चन्दनानी भवंती!
* प्रियाल लाजा गुडुचि आमलकं च अस्थिमज्जगे दाहे उपयुक्तं!
* शतावरी नवनीतं घृतं च शुक्रक्षयजं दाहं शमयती !

42.शीतप्रशमन-
-तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति!
* शैत्यं कफात वातकफात सन्जायते!
* सकफकास.

43.उदर्दप्रशमन- 
-तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति !

44.अंगमर्दप्रशमन-
-विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति !
* वातकोपात तथा धातुक्षयाच्च अंगमर्दनं भवती , अंगमर्दनानी वातं शमयंती धातून वर्धयती !
* ज्वरपुर्वरूप,ग्रहणीपुर्वरुप, जहा बलक्षय चालु होता है.

45.शुलप्रशमन-
-पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति !


46.शोणीतस्थापन-
-मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति !
* रक्तातिसारे रक्तार्शसी रक्तप्रदरे रक्तपित्ते शस्त्रपदे रक्तातीप्रवृत्तौ शोणीतस्थापनानां उपयोग:!


47.वेदनास्थापन-
-शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति !
वेदना निहंत्य शरीरं प्रकृतौ स्थापयती तत वेदनास्थापनम !


48.सद्न्यास्थापन-
-हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि सञ्ज्ञास्थापनानि भवन्ति !
उन्माद अपस्मार मुर्च्छादि मनोरोगेषू सद्न्यास्थापनानां उपयोग!


49.प्रजास्थापन -
-ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति !
यत गर्भोपघातकं दोषं हत्वा प्रजां स्थापयती तत प्रजास्थापन!
पुन्सवन-प्रजास्थापन



50. वयस्थापन-
-अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति !

Post a Comment

0 Comments