Random Post

वाशा ആടലോടകം .ചിറ്റാടലോടകം.Adhatoda beddomei.

वाशा

ആടലോടകം .
ചിറ്റാടലോടകം.
Adhatoda beddomei.
Justicia beddomei .
Malabar nut .

पर्य्यायः-
वाशा , वाशकः , वासकः , वैद्यमाता, वृषः,
आटरूषः, भिषङ्माता,वाजिदन्तः, सिंहास्या।

रसादि गुणाः -
रसः तिक्तः, कषायं ।
गुणः लघु , रूक्षः ।
वीर्य: शीत ।
विपाक: कटु ।

"वासको वासकृत् स्वर्य: 
कफपित्तास्रनाशनः ॥
तिक्तस्तुवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत् ।श्वासकासज्वरच्छर्द्दिमेहकुष्ठक्षयापहः ॥"
( भावप्रकाशम् )

"आटरुषो हिमस्तिक्तः 
पित्तश्लेष्मासकासजित् ।
क्षयहृत् छर्दिकुष्टघ्नो ज्वरतृष्णाविनाशनः ॥"
 ( धन्वन्तरीय निघण्टु )

"सिंहास्या तुवरा तिक्ता 
हृद्या स्वर्या हिमा लघुः॥
वातला कफपितास्र श्वासकासहरा हरेत् ।
ज्वरमेहारुचिच्छर्दिकुष्टतृष्णाक्षत क्षयान् ॥
क्षयघ्नं वातलं पुष्पं वृषजं कफपित्ताजित् ।"
 ( कैयदेव निघण्टु )

"वाशायां विद्यमानायामाशायां जीवितस्य च
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ।"
( गरुडपुराणम् )

"വൃഷം തു വമികാസഘ്നം രക്തപിത്തം ഹരം പരം "

Post a Comment

0 Comments