अङ्कोल - Alangium salviifolium -
അങ്കോലം
A Vishaghna, Kushtaghna, Krimighna tree
Alangium salviifolium
അങ്കോലം
Tamil: Eralincil
Telugu:Nalla ankolamu
Kannada: Ankola
Fruits sweet, Neutrative..
अङ्कोलः कोटरो रेची गूढपत्रो निकोचकः |
गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ||
पीतस्ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः |
कोलको लम्बकर्णश्च गन्धपुष्पश्च रोचनः |
विज्ञानतैलगर्भश्च स्मृतिसङ्ख्याभिधः स्मृतः ||
अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् |
कफानिलहरः सूतः शुद्धिकृद्रेचनीयकः ||
(राजनिघण्टु , प्रभद्रादिवर्ग)
अङ्कोटकः कटुस्तीक्ष्णः स्निग्धोष्णस्तुवरो लघुः |
रेचनः कृमिशूलामशोफग्रहविषापहः ||
विसर्पकफपित्तास्रमूषकाहिविषापहः |
तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु |
बल्यं विरेचनं वातपित्तदाहक्षयास्रजित् ||
(भावप्रकाश , गुडूच्यादिवर्ग )
अङ्कोलस्तिक्तकःस्निग्धःतीक्ष्णोष्णस्तुवरःकटुः |
वामनो रेचनो हन्ति शूलशोफग्रहकृमीन् ||
विसर्पकफपित्तास्रकुक्कुराखुविषं विषम् |
तत्फलं श्लेष्मलं शीतं मधुरं रसपाकयोः ||
सुस्निग्धं बृंहणं वृष्यं गुरु बल्यं विरेककृत् |
निहन्त्यनिलपित्तास्रदाहवह्निक्षतक्षयान् ||
(कैयदेवनिघण्टु)
By Dr.Ajayan Sir