रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः
रक्तपुष्पः शुक्लफलस्तथाऽऽस्फोटः
रक्तार्क
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः
रक्तपुष्पः शुक्लफलस्तथाऽऽस्फोटः
എരുക്ക്
Calotropis procera
🔆 (One source)
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् |
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्कृमीन्॥
रक्तार्कपुष्पं मधुरं सतिक्तं कुष्ठकृमिघ्नं कफनाशनञ्च |
अर्शो विषं हन्ति च रक्तपित्तं संग्राहि गुल्मे श्वयथौ हितं तत्॥
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु |
कुष्ठगुम्लोदरहरं श्रेष्ठमेतद्विरेचनम्॥
(Bhavaprakash)