तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥🙏
स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।🙏
अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शालाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥🙏
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुंतं नमामि ॥🙏
चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥🙏
सर्व श्रुति शिरोरत्न समुद्भासित मूर्तये ।
वेदान्ताम्बूज सूर्याय तस्मै श्रीगुरवे नमः ॥🙏
चैतन्यः शाश्वतः शान्तो व्योमातीतोनिरञ्जनः ।
बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥🙏
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥🙏
ज्ञानशक्ति समारूढस्तत्त्व माला विभूषितः ।
भुक्ति मुक्ति प्रदाता च तस्मै श्रीगुरवे नमः ॥🙏
अनेक जन्म सम्प्राप्त कर्मेन्धन विदाहिने ।
आत्मञ्जा नाग्नि दानेन तस्मै श्रीगुरवे नमः ॥🙏
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥🙏
गुरुरादिर नादिश्च गुरुः परम दैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥🙏
-शुभाशीष आकांक्षी 🙏
डॉ पीयूष गुप्ता