निशोत्तमादि कषायं
(अ हृ कु चि)
निशोत्तमानिंबपटोलमूल -
तिक्तावचालोहितयष्टिकाभिः I
कृत: कषाय: कफपित्तकुष्ठं
सुसेवितो धर्म इवोच्छिनत्ति ॥
चरकसंहितायां
त्रिफलानिंबपटोलं
मञ्जिष्ठारोहिणीवचारजनी ।
एषकषायोभ्यस्तो
निहन्ति कफपित्तजं कुष्ठम् ॥