विश्वोपकुल्या मरिचं त्रयं त्रिकटु कथ्यते ।
कटुत्रयन्तु त्रिकटु त्र्युषणं व्योषमुच्यते ॥
त्र्युषणं दीपनं हन्ति श्वासकासत्वगामयान् । गुल्ममेहकफस्थौल्यमेदःश्लीपदपीनसान् ॥ ”
(भावप्रकाशः )
पिप्पली मरिचं शुण्ठी त्रिभि: त्रयूषणमुच्यते ।
दीपनं श्लेष्म मेदोघ्नं कुष्ठ पीनसनाशनम् ॥
जयेदरोचकं सामं मेहगुल्म गलामयान् ॥
( शारंगधर सम्हिता )
त्रिकटुकं जयेत्।
स्थौल्याग्निसदनश्वासकासश्लीपदपीनसान्।
( अष्टांगा हृदयं )
त्रयाणां कटूनां शुण्ठीमरीचपिप्पलीनांसमाहारः । मिश्रितशुण्ठीमरीचपिप्पल्यः ।
त्रयाणां कटुरसानां समाहारः ।
मिलितेषु शुण्ठीपिप्पलीमरिचेषु ।
तत्पर्य्यायः ।
त्रिकटु त्र्युषणम् , व्योषम् , कटुत्रयम् , कटुत्रिकम् ।
त्रयाणां कटूनां शुण्ठीमरीचपिप्पलीनांसमाहारः ।
त्रिकटु : त्रयाणां कटुरसानां समाहारः।
त्र्युषणं : त्रयाणां उषणानां समाहारः।
व्योषं : विशेषेण ओषतीति ।
कटुत्रयं : कटूनां कटुरसानां त्रयम् ।
Trikatu contains three spices in equal proportions :
Dry ginger – Zingiber officinalis ; ചുക്ക് .
Black pepper – Piper nigrum ; കുരുമുളക് .
Long pepper fruit – Piper longum ; തിപ്പലി .
गुणा: :-
दीपनं
श्वासहरं
कासघ्नं
त्वगामयहरं
गुल्महरं
प्रमेहशमनं
कफशमनं
स्थौल्यहरं
मेदोघ्नं
श्लीपदहरं
पीनसहरं
अग्निकृत्
गुल्मघ्न
गलामयहरं ।
Ayurveda Formulations:
Dasamoola katutrayam kashayam
Ashta churnam
Vilwadi gulika
Amrutarishtam
Kandakari ghrutam
Vyoshadi vatakkam
Dasamoola rasyanam
Rasnadi tailam etc.