केरलीय अग्रैषधानि
वातरोगे तु रास्ना च
गुडूची पित्त रोगके ।
श्लेष्मरोगे तु शुण्डी च
ज्वरे कटुकुरोहिणी ॥
चन्दनं रक्तपित्ते च
कण्डकारी कासरोगे I
द३ामूलं च हिध्मके
कासश्वासे च कासघ्नं ॥
राजयक्ष्मे तु लाक्षा च
स्वरसादे जपापत्रं I
धातीपत्रसमेणच
पीतं मधुसमेन च ॥
अरुचौआर्द्रलाजा तु
प्रसेके वृषपत्रं च ।
बिल्वमूलं च लाजा च
च्छर्दिरोगे विशेषत: ॥
हृद्रोगे जीरकं श्रेष्ठं
रंम्भा तु दाहरोगके I
द्राक्षा मदमूर्च्छायां
मूलरोगे च भल्लातं ॥
वनसूरणमेव च
राजद्रुमं उदावर्त्ते
अतिसारे च मुस्ता तु
विषूच्यां ३ारपुंखां घ्रि
ग्रहण्यां वत्सकं तथा
कृच्छ्रेतु गोकण्डकं
अश्मर्यां अश्मभिस्तथा
पीतिकामूलधात्री द्वो
प्रमेहे श्रेष्ठमौषधं
विद्रधौ रेचनं श्रेष्ठं
यक्षाक्षी वृद्धि ना३ानं
गुल्मरोगे पला३ात्त्वक्
वेणुपतं च शूलके
पीहामये पिप्पली च
उदरे गोजलं तथा
अभया पाण्डुरोगे च
रजनी कामिला गदे
शोफे पुनर्नवं श्रेष्ठं
दूर्वा श्रेष्ठं विसर्पके
मसूरिके गजपदी
कुष्ठे च खदिरं तथा
श्वित्रके पञ्चवत्कं च
कृमिरोगे विडंङ्गं तु
उशीरंतुशिरोगदे
त्रिफला नेत्ररोगेषु
सिन्दुवारदलं श्रेष्ठं
नासाकर्णजरोगके
ओष्ठजिह्वादिरोगेषु
यष्टीमधुकमुत्तमं ॥
अरिमेदत्त्वचो श्रेष्ठं
दन्तरोगेषु सर्वथा ॥