पुनर्नवायोलेपं चूर्णं

योगमालिका
 पुनर्नवायोलेपं चूर्णं
 (अनुभूतं)
 पिष्ट्वा पुनर्नवामूलं
 लौहे लिम्पेत् पुनः पुनः ।
 चूर्णीकृत्य कवोष्णेन
 पयसा सह पाययेत् ॥
 पाण्डुरोगहरं श्रेष्‍ठं
 कामलाञ्च नियच्छति I (23/6)

Comments