पञ्चकोलं - Panchakolam

पञ्चकोलं - Panchakolam

पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः
पञ्चभिः कोलमात्रं यत्पञ्चकोलं तदुच्यते 
पञ्चकोलं रसे पाके कटुकं रुचिकृन्मतम्
तीक्ष्णोष्णं पाचनं श्रेष्ठं दीपनं कफवातनुत्
गुल्मप्लीहोदरानाहशूलघ्नं पित्तकोपनम् 
(भा प्र )

पिप्पलीचव्यविश्वाह्वपिप्पलीमूलचित्रकैः १३
पञ्चकोलमिति ख्यातं रुच्यं पाचनदीपनम्
आनाहप्लीहगुल्मघ्नं शूलश्लेष्मोदरापहम् ।
(शार्ङ्गधरसंहिता)

Contents
1. पिप्पली : (Piper longum) തിപ്പലി
2 .पिप्पलीमूलं : (Root of Piper longum)
തിപ്പലി വേര്
3 .चव्य : (Piper retrofractum)
 കാട്ടുമുളകിൻ വേര്
4 .चित्रक : (Plumbago zeylanica) 
കൊടുവേലിക്കിഴങ്ങ് ( ശുദ്ധി )
5 .नागर : (Zingiber officinale) ചുക്ക്.

गुणाः
कटु रसः
विपाक :कटु
रुचिकृत्
तीक्ष्णम्
उष्णं 
पाचनं 
दीपनं 
कफवातनुत्
गुल्महरं
प्लीहोदरानाहशूलघ्नं
पित्तकोपनम् ।

Formulations :
Panchakola churnam
Panchakolasavam

Comments