Random Post

भृङ्गामलकादि तैलं

योगमालिका (२५/७/२१)
 भृङ्गामलकादि तैलं
 (स यो)
 भृङ्गामलकरस प्रस्थे
 तैलप्रस्थं पलञ्चमधुकस्य ।
 क्षीराढकेविपक्वं
 वलाकामपि कोकिलं कुरुते ॥
 अन्धमनन्धं कुरुते
 बधिरमबघिरं तथा चपलदन्तम् ।
 उपचितपीनोरस्को
 भवति नरो मासमात्रेण ॥

Post a Comment

0 Comments