वत्सनाभ: - Aconitum ferox
वत्सनाभोऽतिमधुर: सोष्णो वातकफापहः
कण्ठरुक् सन्निपातघ्न: पित्तसंशोधनोऽपि च
( ध. नि.)
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च
आग्नेयं वातकफहृद्योगवाहि मदावहम् ।
तदेव युक्तियुक्तं तु प्राणदायि रसायनम् ।
योगवाहि त्रिदोषघ्नं बृंहणं वीर्यवर्धनम् |
( भा. प्र )
विषं तु कटुकं तिक्तमुष्णं चैव कषायकम्
योगवाहि परं चैतन्महोत्कृष्टं रसायनम् ॥
त्रिदोषघ्नं विशेषेण मतं वातबलासनुत् ।
दीपनं शीतशमनं बृंहणं बलवर्धनम् ॥
अग्निमान्द्यप्रशमनं प्लीहोदरनिबर्हणम् ।
वातरक्तापहं चैव श्वासकासविधूननम् ॥
गुदामयग्रहणिकागुल्मनिर्दलनंपरम् ।
कुष्ठपाण्डुज्वरहरं त्वामवातप्रवातप्रणाशनम्
विनिहन्ति विशेषेण तिमिरं च निशान्ध्यताम् ।
अभिष्यन्दं नेत्रशोथं कार्णशोथञ्च दारुणम् ॥
कर्णशूलं शिरःशूलं गृध्रसीं कटिवेदनाम् ।
आखुर्वृधिकसर्पाणां विषं चैव अविलम्बितम्
( र. त. )
वत्सनाभः
विषवृक्षविशेषः
स्थावरविषभेदः
प्रायो वत्सान् नभ्यति हिनस्ति वत्सनाभः
वत्सस्य नाभिरिव वत्सनाभः
अयं सिन्धुवारपत्रसदृशपत्रः ।
अस्य गुणाः ।
अतिमधुरत्वम् । उष्णत्वम् । वातकफकण्ठरुक्सन्निवातनाशित्वम् ।
पित्त- सन्तापकारकत्वञ्च ।
( रा नि )
तत्पर्य्यायः
१ अमृतम् २ विषम् ३ उग्रम् ४ महौषधम्
५ गरलम् ६ मारणम् ७ नागः ८ स्तौककम्
९ प्राणहारकम् १० स्थावरादि ।
Aconitum ferox
Aconitum napellus
Family: Ranunculaceae
Indian Aconite
monk's-hood
aconite
wolfsbane
Malayalam : വത്സനാഭി vatsanabhi.
Hindi : बचनाग
Kannada :Vatsanabhi
Tamil :Vasanaavi, Karunaabhi
Siddha: Vasanaavi, Karunaabhi
Telugu : Nabhi
Part used:
The tuberous root
Properties:
Rasa - Madhura
Guna - Laghu, RUksa, Tiksna, Vyavãyi, Vikãsi
Virya - Usna
Vipaka - Katu
Prabhãva – Rasãyana
Karma - Vatakaphahara, Jvarahara, Jangama vishahara,
Madakãri .
*Vatsanabha – Aconitum ferox, is a herb used as an ingredient in many Ayurvedic medicines.
* It is a poisonous herb, but, when used in smaller quantities, *after purification, as a medicine, it has many health benefits
गुणा : :-
कण्ठरुक्
सन्निपातघ्न:
पित्तसंशोधन:
प्राणदायि
रसायनम्
योगवाहि
त्रिदोषघ्नं
बृंहणं
वीर्यवर्धनम्
दीपनं
शीतशमनं
बलवर्धनम्
अग्निमान्द्यप्रशमनं
प्लीहोदरनिबर्हणम्
वातरक्तापहं
श्वासकासविधूननम्
गुदामय
ग्रहणि
गुल्म
कुष्ठ
पाण्डु
ज्वरहरं
आमवातम्
तिमिरं
निशान्ध्यता
अभिष्यन्दं
नेत्रशोथं
कार्णशोथम्
कर्णशूलं
शिरःशूलं
गृध्रसीं
कटिवेदना
आखुर्वृधिकसर्पाणां विषं ।
Indication:
Diabetes, gout, paralysis, cephalgia, asthma, colic, hypotension
It is used as antidote for poisoning due to rats, rodents, scorpion and snake bites
Ayurvedic medicines with Vatsanabha as ingredient:
Swasaandam gulika
Vettumaran gulika
Sanjivani Vati
Sutshekhar rasa etc
Comments
Post a Comment
If you have any doubts on about Ayurveda treatments about different diseases, different Panchakarma Procedure, Home Remedy, Alternative Medicine, Traditional medicine,Folk medicine,Medicinal Plants, Special diets, Ayurveda medicine ,Complementary medicine LET ME KNOW