SLOGAS IN AYURVEDA
गृहधूम कणा दारु
क्षारनक्ताह्वसैन्धवै : ।
सिद्धं शिखरिबीजैश्च
तैलं नासार्शसां हितं ॥
( नस्य तैलं )
षट् बिन्दु धृतं
भृंगं लवङ्गं मधुकञ्च कुष्ठं
सनागरं गोघृतमिश्रितञ्च ।
षट्बिन्दु नासास्थिगतं च पीनसं
शिरोगतं रोगशतञ्च हन्ति ॥
(षट्बिन्दुनास्थिगतंच पीनसं )
( योगरत्नाकरं )
पनसस्य फलंबालं
कफमेदो विवर्द्धनम् ।
वातपित्तहरं बल्यं
दाहघ्नं मधुरं गुरु ॥
अग्निमाद्यकरं पक्वं
दाह तृष्णा निवारणम् ।
पनसोत्भूतबीजानि
वृष्याणि मधुराणिच ॥
गुरूणि बद्धवर्च्चांसि
सृष्टमूत्राणि निर्दिशोत् ।
एरण्डतैलं
त्रिफला पञ्चमूलानां
कषायं क्षीरसंयुतम् ।
एरण्डतैल संयुक्तं
योजयेश्च विरेचनम् ॥
षट् ककारादि
नाश्नीयात् कदळीकन्दं
काञ्चिकं करमर्द्दकम् ।
करीरं कारवेल्लं च
षट्ककारादि वर्जयेत् ॥
वामशायी द्विभुज्जान:
षण्मूत्री द्विपुरीषकः ।
स्वल्प मैधुनकारी च
शतवर्षाणि जीवति ॥
यः पुमानतिमेधावी
चतुर्णामेकमश्नुते ।
अल्पायुरनपत्यो वा
दरिद्रः पतितोपि वा ॥
पटोलत्रिफलाभीरु
गुडूचीकटुकाकृतम् ।
क्वाथं पीत्वा जयत्याशु
वातशोणितजां रुजाम् ॥
( सु चि ५ )
पैत्ते पक्त्वा वरीतिक्ता
पटोल त्रिफलामृता ॥
( अ हृ वा शो चि )
यथासर्वाणि कृष्ठानि
हतः खदिरबीजकौ ।
तथैवार्शांसि सर्वाणि
वृक्षकारुष्क्करौहत : ॥
वृक्षकं = कुटजबीजं
यथा दोषं यथा रोगं
यथोद्रेकं यथा वयः ।
विभज्य देशकालादीं
स्तत्र योज्यं भिषग्जितम् ॥
आदावायु: परीक्षेत
पश्चाल्लक्षणमुत्तमम् ।
आयुर्हीन नराणां च
लक्षणै किं प्रयोजनम् ॥
विनापि भेषजैर्व्याधि :
पथ्यादेव निवर्त्तते ।
न तु पथ्य विहीनस्य
भेषजानां शतैरपि ॥
पथ्ये सति गदार्त्तस्य
किमौषधनिषेवणम् ।
पथ्येfसतिगदार्त्तस्य
किमौषधनिषेवणम् ॥
प्रपौण्डरीकादि घृतं
प्रपौण्डरीकमञ्जिष्ठा
मधुकोशीरपत्मकै : ।
सहरिद्रैः कृतंसर्प्पिः
सक्षीरं व्रणरोपणम् ॥
कटुत्रिक क्षौद्रयुता: समूत्राः
भक्ष्यायवान्नानि रसाश्च मौद्गाः ।
स श्रृङ्गिवेराः सपटोलनिंबा
हिताय देयागळगण्डरोगे ॥
( सु चि अ १८/५१)
बला माषात्मगुप्तांश्च
रौहिषाख्यं तथा तृणम् ।
एरण्डमूलमित्येषां
क्वाथो हन्त्यर्दितंगदम् ॥
पक्षाघातं विश्वचीं च
पाने नस्ये च योजित : ।
किरातादि गणम्
किराततिक्तकारिष्ट
यष्ट्याह्वम्बुदवासकै : ।
पटोलपर्प्पटोशीर
त्रिफला कौडजान्वितम् ॥
किरातादिरयं प्रोक्तो
गणो विस्फोटनाशन : ।
शाकं दशविधं
पत्रं पुष्पं फलं नाळं
कन्दमक्कुरमस्तकम् ।
त्वचो मृणालं वल्लीति
शाकं दशविधं स्मृतम् ॥
रसाळा
रसाळा बृंहणी वृष्या
स्निग्धा बल्या रुचिप्रदा
शर्करामरिचाक्रान्तं
निरंबु मथितं दधि ।
शुण्ठीजीरकसंयुक्तं
रसाळेत्यभिधीयते ॥
माषात्मगुप्तकैरण्ड
वाड्यालकश्रृतं पिबेत् ।
हिंगुसैन्धव संयुक्तं
पक्षाघातनिवारणम् ॥
വാട്യാലകം = മഞ്ഞ കുറുന്തോട്ടി
पुनर्नवामृतादारु
पथ्यानागर साधित : ।
गोमूत्रगुग्गुलुयुतः
क्वाथः शोफोदरापह : ॥
Comments
Post a Comment
If you have any doubts on about Ayurveda treatments about different diseases, different Panchakarma Procedure, Home Remedy, Alternative Medicine, Traditional medicine,Folk medicine,Medicinal Plants, Special diets, Ayurveda medicine ,Complementary medicine LET ME KNOW