पञ्चाम्ल तैलं

पञ्चाम्ल तैलं
( अनुभूतं )
पञ्चाम्ळस्वरसे तैलं
तक्रगोमूत्रसंयुतम् ।
पथ्यावृक्षाम्लसिरयो :
कल्केनचसमन्वितम् ॥
सम्यक्विपक्वमभ्यङ्गा त्
शोफपाण्डूदरापहम् ॥

अन्यत् पञ्चाम्ल तैलं
( चि म वा व्या चि १८६ )
पञ्चाम्लस्य रसे शिग्रु
सर्जदारु समन्वितै:
रास्ना शताह्वा पटुभिर् -
मञ्जिष्ठाशारिबायुतै :
सिद्धं तैलं सधान्याम्लं
दध्ना सर्वांङ्गवातजि त् ॥

आरोग्यकल्पद्रुमयोगं
पञ्चाम्लस्वरसे दारु
शताह्वापटुशिग्रुभि : ।
रास्नासर्ज्जरसाभ्याञ्च
मञ्जिष्ठाशारिबायुतै : ॥
कल्कितै: साधितं तैलं
दधिकाञ्चिकसंयुतम् ।
वातं सर्वाङ्गगं हन्ति
नीहारमिव भास्कर : ॥
☆☆☆☆☆☆☆☆☆☆☆☆☆
ഗുണപാഠം
കുശവേര്
കുശവേർപിത്തവാതഘ്നം
വസ്തിശുദ്ധികരം ഗുരു
वस्ति शुद्धिकरं काशं
पित्तानिलहरं परम् ।
☆☆☆☆☆☆☆☆☆☆☆☆☆
പഞ്ചാമ്ലങ്ങൾ
അമ്പഴം പുളിയും നല്ല
നാരകഞ്ച പരിച്ചികം
ഞെരിഞ്ഞാം പുളി ഇത്യേ തൽ
പഞ്ചാമ്ലം പരികീർത്തിതം.
कोल दाडिम वृक्षाम्ल
चुक्रिका चुक्रिका रस :
पञ्चाम्लको
( अ हु म चि )
☆☆☆☆☆☆☆☆☆☆☆☆☆

Comments