पारन्त्यादि केरतैलं /ആമ്പൽ

पारन्त्यादि केरतैलं
( प्रयोगसमुच्चयं - मण्डलि विषप्रकरणं )
पारन्ती वैरिमूलञ्च
क्षीरिवृक्षत्वचोपि च ।
पलप्रमाणेनादाय
प्रस्थषट्केम्भस : पचेत् ॥
पादावशेषे तत्क्वाथे
पृथक् प्रस्थं तु योजयेत् ।
पुराणकेरतैलस्य
जंबीरस्वरसस्य च ॥
जातीपत्ररसस्यापि 
दूर्वायास्तु तदर्द्धकम् ।
स्फोटिका सुषवी ब्राह्मी
पर्पटात् किंशुकच्छदात् ॥
अपामार्गात् हरिद्राया
जीमूतदळतोfपि च ।
प्रत्येकं कुडबांशं च
ततः कल्क्कानि योजयेत् ॥
अश्वगन्धनिशायुग्म -
पाठाचन्दनबाळकै : ।
त्रिफला रोहिणी यष्टी
विषवेगं तथा पुन : ॥
श्यामा जटा त्रुषणं च
तांबूली सुषवीफलम् ।
सार्द्धमाषमितं तस्मात्
द्विगुणं चाक्षबीजकम् ॥
मन्दाग्निना पचेत् सर्वं
कृष्णाकर्पूरतुत्थकम् ।
सार्द्धगुञ्जामितं क्षिप्त्वा
स्थापयेत् शुचिभाजने ॥
पारन्त्याद्यमिदं तैलं
सर्वव्रणविषापहम् ।
☆☆☆☆☆☆☆☆☆☆
ഗുണപാഠം
ആമ്പൽ
ആമ്പൽ നന്നു കഫത്തിന്ന്
കൃമിവാതവിനാശനം
कुमुदस्यफलं वृष्यं
मेहदाहविनाशनम् ।


Comments